वांछित मन्त्र चुनें

इ॒यं वा॑मह्वे शृणु॒तं मे॑ अश्विना पु॒त्राये॑व पि॒तरा॒ मह्यं॑ शिक्षतम् । अना॑पि॒रज्ञा॑ असजा॒त्याम॑तिः पु॒रा तस्या॑ अ॒भिश॑स्ते॒रव॑ स्पृतम् ॥

अंग्रेज़ी लिप्यंतरण

iyaṁ vām ahve śṛṇutam me aśvinā putrāyeva pitarā mahyaṁ śikṣatam | anāpir ajñā asajātyāmatiḥ purā tasyā abhiśaster ava spṛtam ||

पद पाठ

इ॒यम् । वा॒म् । अह्वे । शृ॒णु॒तम् । मे॒ । अ॒श्वि॒ना॒ । पु॒त्राय॑ऽइव । पि॒तरा॑ । मह्य॑म् । शि॒क्ष॒त॒म् । अना॑पिः । अज्ञाः॑ । अ॒स॒जा॒त्या । अम॑तिः । पु॒रा । तस्याः॑ । अ॒भिऽश॑स्तेः । अव॑ । स्पृ॒त॒म् ॥ १०.३९.६

ऋग्वेद » मण्डल:10» सूक्त:39» मन्त्र:6 | अष्टक:7» अध्याय:8» वर्ग:16» मन्त्र:1 | मण्डल:10» अनुवाक:3» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अश्विना) हे अध्यापक और उपदेशक ! (वाम्) तुम दोनों को (इयम्-अह्वे) यह मैं शिक्षण उपदेश को चाहती हुई कुमारी-ब्रह्मचारिणी आमन्त्रित करती हूँ (मे शृणुतम्) मेरी प्रार्थना को सुनो-स्वीकार करो (पुत्राय-इव पितरा मह्यं शिक्षतम्) सन्तान के लिए माता-पिता के समान मेरे लिए प्रार्थनीय ज्ञान को या वस्तु को दो (अनापिः-अज्ञाः-अमतिः-असजात्या) मैं गृहस्थ आश्रम को न प्राप्त हुई विषयज्ञानरहित, आत्मवाली-आत्मज्ञानवाली स्वाभिमानिनी, लज्जायुक्त (तस्याः-पुरा-अभिशस्तेः-अवस्पृतम्) उस मेरी मृत्यु से पहले अपनी शरण में मुझे ग्रहण करो-सुरक्षित करो ॥६॥
भावार्थभाषाः - अध्यापक और उपदेशकों से कुमारी कन्याएँ भी शिक्षा ग्रहण करें। विशेषतः अमर जीवन बनानेवाली-जीवन्मुक्त होनेवाली कन्याएँ अध्यात्मज्ञान का उपदेश लें ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अश्विना) हे अध्यापकोपदेशकौ ! (वाम्) युवाम् (इयम्-अह्वे) एषाऽहं शिक्षणोपदेशौ कामयमाना कुमारी खल्वाह्वयामि (मे शृणुतम्) मम प्राथनां शृणुतं स्वीकुरुतम् (पुत्राय-इव पितरा मह्यं शिक्षतम्) सन्तानाय पितरौ मातापितराविव मह्यं प्रार्थनानुरूपं प्रार्थनीयं ज्ञानं वस्तु वा दत्तम् (अनापिः-अज्ञाः अमतिः असजात्या) अहं खल्वस्मि-अनाप्तगृहस्था विषयज्ञानरहिता पुनः-अमतिरात्ममयी मतिर्यस्या स्वाभिमानवती सलज्जा “अमतिरमामतिरात्ममयी” [निरु० ६।१२] (तस्याः पुरा अभिशस्तेः-अवस्पृतम्) तस्याः खलु मम-अभिशंसनात् अनिष्टापत्तेर्मृत्योः पूर्वमेव शरणे गृहीतं रक्षतम् ॥६॥